गुरुवार, १९ सप्टेंबर, २०१९

भाषयोरभेदे भारतीयत्वम्

यदि भविष्यति हिन्दी एका राष्ट्रभाषा तर्हि भारतो न तिष्ठेत् भारतः। वैविध्ये एव भारतस्य भारतीयत्वम्। नैकानि राज्याणि संघराज्य-भारतात् बहिः गमिष्यन्ति इति अपि निश्चितम्। भाषाः अस्मान् बन्धनाय, अस्माकम् एकीकरणाय सन्ति, न तु परस्परविरोधाय, स्वामित्व-अंगीकाराय।
प्रत्येक-भारतीय-भाषायां, भाषायाः च उत्तमः अभ्यासः भवतु इति अद्यतन भारतस्य आवश्यकता। अग्रे गच्छद्विज्ञानं भारते परकीयभाषासु एव आगच्छति। वयं भारतीय-भाषाभिः कीयत् कार्यं कुर्मः? नूतनशब्दानां निर्मिति: क्रियते किम्? संस्कृते यद् शब्दशास्त्रं लिखितमस्ति, निरुक्तं वा भवतु, तस्य उपयोगः आधुनिक-भारतीय-भाषासु क्रियते किम्?  किमर्थं भाषासु  स्पर्धा?
भारतीयाः भाषाः नैकाभिः लिपीभिः वयं लिखामः। काऽपि भाषा भवतु नाम, तस्याः लिपी तु ब्राह्मीतः एव उद्भूता। लेखने उच्चारणशास्त्रं महत्त्वपूर्णम्। न विद्यते काऽपि हिन्दीलिपी। हिन्दी, संस्कृतं, मराठी, कोंकणी, नेपाली इत्यादयः भाषाः देवनागरीलिपीं स्वीकुर्वन्ति। परं उच्चारणशस्त्रस्य उत्तमता लेखने मातृत्वात् संस्कृते एव वर्तते। यकारजकारयोरभेदः, वकारबकारयोरभेदः, शकार-षकारयोरभेदः इत्यादयः उच्चारणदोषाः हिन्दीभाषिकाः कुर्वन्ति। हिन्दीभाषायां ते भेदाः न सन्ति इति तस्याः भाषायाः वैशिष्ट्यमिति यदि वयं स्वीकुर्मः चेत् देवनागऱ्यामपि तस्य वैशिष्ट्यस्य दोष-पूर्ण-व्यवहार-आचरणं कथं प्रसरति इति मया आभारते दृष्टम्।
कथं न शक्नुवन्ति अरुणाचलप्रदेशीयाः स्ववाणीं देवनागरीलिप्यां लिखितुम्?
तान् प्रति यदि देवनागरीलिप्याः शुद्धोच्चारणमेव न गच्छेत् चेत् ते कथं शक्नुयुः? "श्रीरंगपट्टनम्" इति लेखने भाषा भिन्ना लिपी वा?

भाषायाः उत्तमता। उत्तमभाषायां शिक्षणम्। उत्तमभाषार्थं च शिक्षणम्। इति अद्यतनभारतस्य आवश्यकता

तडागे बहवः बकशावकाः सन्ति। एकः भिन्नः। सर्वे तं कुरूपं मन्यन्ते। सः अपि स्वं कुरूपं मत्वा स्वस्य कृते न्यूनगण्डं प्रप्नोति। कदाचित् रुदन् जले पश्यन् प्रतिबिम्बं पश्यति। स्वस्य राजहंसत्वस्य आविष्कारः स्वं भवति। भारतस्य राजहंसत्वं भाषावैविध्ये अस्ति। न हि अन्यान् देशान् अनुसर्तुं, यस्याः भाषायाः जनसंख्यायां अभाषिकाणां न्यूनता अस्ति तस्याः स्वामित्वं प्रस्थापयितुम्।

एतद् अहं संस्कृतेन लिखामि यतः अस्यां भाषायां पक्षपातस्य सम्भावना न्यूनातिन्यूना। यदा भाषानुसारिणी राज्यस्य प्रान्तरचना अभवत् तदा संस्कृते ब्राह्मणवादस्य कलंकः आसीत्। अतः तदा संस्कृतभाषा राष्ट्रभाषार्थरूपेण निराकृता। डाॅ. बाबासाहेब आम्बेडकर महोदयः आग्रही आसीत् संस्कृतराष्ट्रभाषा भवतु इत्यर्थम्। तदा तत्रभवतः अवमानः एव अभवत्। अधुना संस्कृते राष्ट्रीय-ऐक्यस्य सामर्थ्यं वर्तते तद् इतिहासस्य कलंकमपि संस्कृतभारत्याः कर्येण, अभ्यासकानां अभ्यासेन च निराकारितः अस्ति। हिन्दीभाषायां तावत् सामर्थ्यमस्ति किम्?

का स्वामित्वं स्थापयितुं शक्नुयात्? या सृजनशीला, कार्यक्षमा सा एव। तावद् सामर्थ्यं आभारते केवलं संस्कृते वर्तते। महाराष्ट्रस्य मराठी भवतु, तामीळनाडोः वा तामीळम्, उत्तर भारतस्य हिन्दी भवतु ईशान्यस्य आखोमिया वा, किं सूत्रमेतासु भाषासु? यद्यपि पाश्चात्य-अभ्यासकैः कुलभेदाः निर्माय अस्माकं भाषासु एव भेदभावं निर्मितं तर्ह्यपि वयं भारतीयभाषासु संस्कृतस्य एव सूत्रत्वं द्रष्टुं शक्नुमः। अत्र पूर्व-परयोः प्रश्नम् उपस्थापयितुं न मे इच्छा। अनर्थकोऽयं प्रश्नः। यथा असंख्याः उपनद्यः मिलित्वा प्रवाहयन्ति ब्रह्मपुत्रनदं, तथा प्रवहन्ति भाषाः वाणीः मिलित्वा। न तत्र पूर्व-परत्वम्। भारतीयेषु भेदोत्पादनाय निर्मितोऽयं प्रश्नः। वास्तविकता तु एषा एव यद्, संस्कृते तामीळशब्दाः सन्ति, तामीळे च संस्कृतशब्दाः। वयं कं शब्दं "संस्कृतोऽयं शब्दः" "तामीळोऽयं वा" इति ब्रूमः? शब्दोऽयं, आकृतिं सूचयति। यस्यां भाषायां, प्रान्ते वा येन प्रकारेण तस्य उपयोगः भवति तस्मै तावत् च प्राप्यते  भाषायाः नामकरणम् शब्दाय।

भाषा तु एका एव। नामहीना सा। रूपं तस्याः संवादे, अभिव्यक्तौ अभिव्यक्तिग्रहणे च बद्धम्। ध्वनिभिः  नैकैः गृह्णितम्। कैश्चन जनैः आंगिकाभनयेन प्रकटितम्, मनस्शब्दैः परायां च बद्धम्।

आभारते अटन्तं मां न कदाऽपि भाषायाः समस्या उद्भूता। गृह्णिताः नूतनशब्दाः भारतीयभाषायाम्। यदि ज्ञातं शब्दशास्त्रं तर्हि कुत्र भेदः भाषयोः?
'चोर' नाम ओदनम् 'मोर' नाम तक्रम् मल्याळं भाषायाम्।  "चोरे मोरः" इति च मराठी वाक्प्रचारः। कुत्र अस्ति भाषाभेदः?
न भूता वा न भवति वा न भविष्यति हिन्दी एका राष्ट्रभाषा। निर्णयोऽयं हरेत् भारतीयत्वम् भारतस्य।

-सम्प्रिः, गन्धारः।
चेन्नयी, 20/9/2019

कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा