शनिवार, २१ मार्च, २०२०

कोरोनापर्व। 'कुरु नु पर्व'

प्रार्थये जनानुशासनं, स्वयमनुशीलनञ्च।
गृहात् बहिरागत्य बहूनि अनुदिनकार्याणि कर्तुकामा वयं बहुत्र स्पर्शयामः। कोरोनाविषाणोः संसर्गः न वायुजन्यः स तु स्पर्शजन्यः इति न विस्मरेम। बहिर्देशात् आगतैः प्रवासीभिः अस्माकं देशे अनवगतैः स्पर्शैः स विषाणुः प्रसारितः। वस्तुनि तस्य जीवमानः द्वादशघण्टामात्रम्।मानवशरीरस्थे कफे जीवति सः। वसन्तः वमनस्य ऋतुः। कफोत्सर्गे कफहननं ऋतुचर्येषु आचार्यैः सूचितम्। अस्माकं स्वास्थ्यं वर्धयितुं वमनमाचरेम।

गृहात् बहिर्न गन्तव्यमिति तु अभ्यासकेभ्यः ज्ञानोपासना पर्व। अस्माकं व्यवहारे बहून् असंस्कृतशब्दान् वयं योजयामः। तेषां कृते सहजसंस्कृतशब्दनिर्माणं शक्यं किम्? सार्थधातुपाठं स्वीकृत्य प्रयोगाणि कुर्याम। यदि न संस्कृते तर्हि स्वस्वमातृभाषासु अपि एवमेव कर्तुं शक्यते। निर्मितः नूतनः शब्दः यदि न प्रयुक्तः चेत् स मृतो भवेत्। यतः विनाप्रयोगं शब्दः मृतः, वाक्यं मृतं, भाषा मृता भविष्यति। अतः नूतनशब्दं प्रयुज्य लेखनं कुर्याम। 

भाषायाः अवगमनं नाम भाषाचिन्तनेन प्रकटित-भाषास्वरूपदर्शनम्। न कोऽपि भाषां पाठयितुम् शक्नोति। सा दर्शयति स्वरूपं भाषा-उपासकाय। अस्मिन् एकान्तपर्वणि भाषायाः उपासनां कुर्याम।

कालोऽयं कालाय अनेकानाम्।  वयं विरलाः संस्कृतज्ञाः न तेषु अनेकेषु भवेम इति संकल्पं कृत्वा जनानुशासनं, स्वयमनुशीलनं, सर्वकारनियमानुमोदनं आचरेम।

-सम्प्रिः।
सौर 2 चैत्र शके 1942.
2020ख्रि.

मंगळवार, १० मार्च, २०२०

त्याचे दर्शन सकळां

पंढरीच्या विठोबाला
मी पंढरपुराहून आणले,
माझ्या दारावर त्याला
सगळ्यांसाठीच ठेवले...॥
गाभाऱ्यात मंदिराच्या
भक्ताची हेटाळणी,
मन गाभाराच व्हावे
वसो ज्ञाना तुकाची  रे वाणी!॥
नाही पंढरपुरा येणे
झाले चंद्रभागेचे दर्शन
दीपले माझे मन
पाहून मंदिर तुझे छान॥
सभामंडपी कीर्तन,
देश ऐक्याचे ते गान
भक्ति-ज्ञानाच्या योगाने
हरपलेले देहभान॥
जवळ येता रे गाभरा
ओलावलल्या नेत्रकडा,
आत बघणार होतो
ट्रेनमधल्या पांडुराया॥
पैस, हरिपाठ,
अभंग अन् गवळणी
तानांची आरती
तैसी दिसे गा विठाई?॥
प्रवेशिलो गाभाऱ्यात
तैसी थाप पाठीवर
दुरून दर्शन ते झाले ,
कानी "सरका पुढे, सरका पुढे"॥
ठेवण्या मस्तक त्याचे पायी
दृष्टी पायाशी खिळलेली
थाप दुसरी पडली,
"सरका पुढे"ची ती घाई.॥
अर्पिता तुळशी हार
रूप सुंदर पाहिले, मग
तिसऱ्या थापे सरशी
सोडला गाभारा मनाने.॥
मग आलो घरी घेऊन
एक विठोबा मनीचा
ज्याचे दर्शन रे व्हावे
सकळां येता जाता...॥
-सम्प्रिः।

मंगळवार, ३ मार्च, २०२०

पथनियमानां पालनम्।

डोम्बिवल्याः टिळकनगरे घटितः प्रसंगोऽयम्। कश्चित् मनुष्यः भ्रमणध्वनियन्त्रे वदन् अश्वशक्तिधारीद्विचक्रिकां चालयन् साईमंदिरपुरतः स्थिते संकीर्णे मार्गे मम पुरतः आगतः। अहमपि अश्वशक्तिधारीद्विचक्रिकां चालयमानः एव। भ्रमणध्वनियन्त्रे वदन्तं नियमोल्लंघनकुरवन्तं तं दृष्ट्वा सावेगं तस्य पुरतः गतवान्। स्थगिते तस्य ममापि च वाहने आमुखे। यतः भवान् यन्त्रे वदन् वाहनं चालयति अतः भवता एव वाहनं पृष्ठे नेतव्यम् इति एकवाक्येनेव सः उक्तः मया।  कथं अधावयत् मयि तव वाहनं? त्वया एव वाहनं पृष्ठे नेतव्यम् इति तस्य विनम्रतां त्यक्त्वा प्रतिवादः आरब्धः। नियमोल्लंघनं दृष्ट्वा मया तु सकारणमेव धावयितम् आसीत् मे वाहनम्। इदानीं धौतवस्त्रधारी 'ब्राह्मण'कुली अहमिति' सः प्रतिवादं कृतवान्। एतेन प्रतिवादेन अहं पृष्ठे न नयानि मे वाहनमिति संकल्पमेव  कृतवान्। अहं जीन्स तथा च "keep calm पठ पुत्र व्यकारणम्" इति लिखितं टीशर्ट धारयन् आसम्। पथां नियमाः वर्णभेदं पश्यन्ति किम्? सायकलोपासनायां बहुवारं मृत्युमदर्शयत् मां नियमोल्लंघकाः। इदानीं मम नगरे नाहं पश्यामि वर्णं वा धर्मं वा नियमोल्लंघकस्य। तमुक्तवान्, "कोऽपि वा भवतु ते वर्णः  नियमानां पालनं तु भवता मयाऽपि च करणीयमेव। भवान् यन्त्रे वदन्तं वाहनं चालयित्वा तन्न कृतवान्। अहं तु इतः पृष्ठे न गच्छानि। भवता गन्तव्यम्। पञ्च वा षड् निमिषेभ्यः आवां तत्रैव स्थितौ। "मम इच्छा अतः अहं वदानि यन्त्रे। त्वं किमर्थमधावयत् मयि?" "यथा भवतः इच्छा यन्त्रे वक्तुम् तथैव ममापि धावयितुं भवति।"
अन्ये पथिकाः स्थिताः अग्रे पृष्ठे च उभयानपि परितः सर्तुं निवेदनं चक्रुः।
अन्ततः येन नियमोल्लंघितः तेनैव  पृष्ठगमनं कृतम्।
वयं सर्वे कार्यकर्तारः। पथनियमानां पालनं सर्वेषां कर्तव्यम्। धौतवस्त्रं धारयतु वा पठाणीं धारयतु। पथनियमेषु शिथिलता न कस्यापि कृते। नियमोल्लंघनेन भूयमाने मृत्युसमये न वस्त्रं न वर्णं न वा धर्मं पश्यति यमः। यस्य मृत्युः भवति न स पुनरागच्छेत्। यस्य नियमोल्लंघनकारणात् मृत्युः सः तु आनन्देन संचरेत् इति भारतस्य पथां दुर्दैवम्।
-सम्प्रिः।