प्रार्थये जनानुशासनं, स्वयमनुशीलनञ्च।
गृहात् बहिरागत्य बहूनि अनुदिनकार्याणि कर्तुकामा वयं बहुत्र स्पर्शयामः। कोरोनाविषाणोः संसर्गः न वायुजन्यः स तु स्पर्शजन्यः इति न विस्मरेम। बहिर्देशात् आगतैः प्रवासीभिः अस्माकं देशे अनवगतैः स्पर्शैः स विषाणुः प्रसारितः। वस्तुनि तस्य जीवमानः द्वादशघण्टामात्रम्।मानवशरीरस्थे कफे जीवति सः। वसन्तः वमनस्य ऋतुः। कफोत्सर्गे कफहननं ऋतुचर्येषु आचार्यैः सूचितम्। अस्माकं स्वास्थ्यं वर्धयितुं वमनमाचरेम।
गृहात् बहिर्न गन्तव्यमिति तु अभ्यासकेभ्यः ज्ञानोपासना पर्व। अस्माकं व्यवहारे बहून् असंस्कृतशब्दान् वयं योजयामः। तेषां कृते सहजसंस्कृतशब्दनिर्माणं शक्यं किम्? सार्थधातुपाठं स्वीकृत्य प्रयोगाणि कुर्याम। यदि न संस्कृते तर्हि स्वस्वमातृभाषासु अपि एवमेव कर्तुं शक्यते। निर्मितः नूतनः शब्दः यदि न प्रयुक्तः चेत् स मृतो भवेत्। यतः विनाप्रयोगं शब्दः मृतः, वाक्यं मृतं, भाषा मृता भविष्यति। अतः नूतनशब्दं प्रयुज्य लेखनं कुर्याम।
भाषायाः अवगमनं नाम भाषाचिन्तनेन प्रकटित-भाषास्वरूपदर्शनम्। न कोऽपि भाषां पाठयितुम् शक्नोति। सा दर्शयति स्वरूपं भाषा-उपासकाय। अस्मिन् एकान्तपर्वणि भाषायाः उपासनां कुर्याम।
कालोऽयं कालाय अनेकानाम्। वयं विरलाः संस्कृतज्ञाः न तेषु अनेकेषु भवेम इति संकल्पं कृत्वा जनानुशासनं, स्वयमनुशीलनं, सर्वकारनियमानुमोदनं आचरेम।
-सम्प्रिः।
सौर 2 चैत्र शके 1942.
2020ख्रि.

