डोम्बिवल्याः टिळकनगरे घटितः प्रसंगोऽयम्। कश्चित् मनुष्यः भ्रमणध्वनियन्त्रे वदन् अश्वशक्तिधारीद्विचक्रिकां चालयन् साईमंदिरपुरतः स्थिते संकीर्णे मार्गे मम पुरतः आगतः। अहमपि अश्वशक्तिधारीद्विचक्रिकां चालयमानः एव। भ्रमणध्वनियन्त्रे वदन्तं नियमोल्लंघनकुरवन्तं तं दृष्ट्वा सावेगं तस्य पुरतः गतवान्। स्थगिते तस्य ममापि च वाहने आमुखे। यतः भवान् यन्त्रे वदन् वाहनं चालयति अतः भवता एव वाहनं पृष्ठे नेतव्यम् इति एकवाक्येनेव सः उक्तः मया। कथं अधावयत् मयि तव वाहनं? त्वया एव वाहनं पृष्ठे नेतव्यम् इति तस्य विनम्रतां त्यक्त्वा प्रतिवादः आरब्धः। नियमोल्लंघनं दृष्ट्वा मया तु सकारणमेव धावयितम् आसीत् मे वाहनम्। इदानीं धौतवस्त्रधारी 'ब्राह्मण'कुली अहमिति' सः प्रतिवादं कृतवान्। एतेन प्रतिवादेन अहं पृष्ठे न नयानि मे वाहनमिति संकल्पमेव कृतवान्। अहं जीन्स तथा च "keep calm पठ पुत्र व्यकारणम्" इति लिखितं टीशर्ट धारयन् आसम्। पथां नियमाः वर्णभेदं पश्यन्ति किम्? सायकलोपासनायां बहुवारं मृत्युमदर्शयत् मां नियमोल्लंघकाः। इदानीं मम नगरे नाहं पश्यामि वर्णं वा धर्मं वा नियमोल्लंघकस्य। तमुक्तवान्, "कोऽपि वा भवतु ते वर्णः नियमानां पालनं तु भवता मयाऽपि च करणीयमेव। भवान् यन्त्रे वदन्तं वाहनं चालयित्वा तन्न कृतवान्। अहं तु इतः पृष्ठे न गच्छानि। भवता गन्तव्यम्। पञ्च वा षड् निमिषेभ्यः आवां तत्रैव स्थितौ। "मम इच्छा अतः अहं वदानि यन्त्रे। त्वं किमर्थमधावयत् मयि?" "यथा भवतः इच्छा यन्त्रे वक्तुम् तथैव ममापि धावयितुं भवति।"
अन्ये पथिकाः स्थिताः अग्रे पृष्ठे च उभयानपि परितः सर्तुं निवेदनं चक्रुः।
अन्ततः येन नियमोल्लंघितः तेनैव पृष्ठगमनं कृतम्।
वयं सर्वे कार्यकर्तारः। पथनियमानां पालनं सर्वेषां कर्तव्यम्। धौतवस्त्रं धारयतु वा पठाणीं धारयतु। पथनियमेषु शिथिलता न कस्यापि कृते। नियमोल्लंघनेन भूयमाने मृत्युसमये न वस्त्रं न वर्णं न वा धर्मं पश्यति यमः। यस्य मृत्युः भवति न स पुनरागच्छेत्। यस्य नियमोल्लंघनकारणात् मृत्युः सः तु आनन्देन संचरेत् इति भारतस्य पथां दुर्दैवम्।
-सम्प्रिः।

कोणत्याही टिप्पण्या नाहीत:
टिप्पणी पोस्ट करा